Toll Free: 1800-270-4888
1. School of Vedic Knowledge Systems
Advaita Vedanta
Five years (Ten Semesters)
Students who have passed Prak-Shastri, Uttara Madhyama, Sahitya Pravesha and any of the other recognised examinations equivalent to Class 12 are eligible for this programme. They will also have to pass the entrance examination conducted by Chinmaya Vishwavidyapeeth.
Email: admissions@cvv.ac.in
Admissions Toll-free:
1800-270-4888 or 75588 96000
The five-year Integrated Masters in ‘Advaita Vedanta’ programme is designed for students desirous of studying Advaita Vedanta in the traditional way. This school of Indian philosophy is based on three texts – the Upanishads, the Brahmasutras and the Bhagavad Gita. These are also called ‘Prasthanatrayi’.The commentaries of Sri Adi Sankaracharya on ‘Prasthanatrayi’ are a composite treatise for the study of Advaita, and therefore the curriculum covers all commentaries of Sri Adi Sankaracharya. To understand the concepts of Advaita Vedanta one should also be familiar with the concepts of other philosophies such as Nyaya, Mimansa and Samkhya. Hence, the Integrated Masters course for Advaita Vedanta also includes important concepts of these schools.This course has been designed to include the best and important aspects of the most prominent traditions of Indian philosophy.
प्रवेशार्हता –
इह खलु नामरूपकर्मात्मके भोक्तृभोग्यलक्षणे सुखदु:खमोहस्वभावे संसारार्णवे निमग्नान् जनान् समुद्दिधीर्षु: स्वयं भगवान् श्रीशङ्कर: शङ्कराचार्यरूपेणावतीर्य श्रुतिशिखाभूतमहावाक्यप्रतिपाद्यात्मस्वरूपरूपार्थनिर्णयार्थं श्रुतिस्मृतिन्यायाख्येषु त्रिष्वपि प्रस्थानेषु भाष्यग्रन्थान् विरचय्य उपक्रमोपसंहारादिभि: षड्भिस्तात्पर्यलिङ्गै: नित्यशुद्धबुद्धमुक्तस्वभावेऽद्वितीयब्रह्ममात्रे सर्वासामुपनिषदां तात्पर्यमवदधार। भगवत्पादप्रणीता एत एव भाष्यग्रन्था अद्वैतवेदान्तशास्त्रस्य प्रमाणभूता: ग्रन्था: सन्ति। तेषाञ्च भाष्यग्रन्थानामतिगभीरतात्पर्यवत्वात् साक्षात्प्रवेष्टुमशक्यत्वेन तत्र प्रवेशसामर्थ्यसम्पादनाय सामान्यतो वेदान्तशास्त्रीयविषयाणामवबोधाय च सम्प्रदायरीत्या अवश्यम्पठनीयाः केचन ग्रन्था अपि अस्य पाठ्यक्रमस्याङ्गत्वेन स्वीकृताः सन्ति। तद्यथा - तर्कसङ्ग्रहः तदीयदीपिकाख्या टीका, न्यायसिद्धान्तमुक्तावली, मीमांसान्यायप्रकाशः साङ्ख्यकारिका, योगसूत्रं वेदान्तपरिभाषा इत्येते प्रकरणग्रन्थाः पाठ्यक्रमस्यास्य आदौ एव विनियोजिताः, किञ्च काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकमित्युक्त्या व्याकरणाशास्त्रस्याप्यखिलशास्त्रोपकारकत्वादवश्यमध्येतव्यतया सर्वांशेन तच्छास्त्रीयग्रन्थानाम् अत्र विनियोजयितुमशक्यत्वात् सिद्धान्तकौमुदीस्था: केचनांशा: अत्र पाठ्यक्रमे विनियोजिता:। वेदान्तदर्शनस्य अभियुक्तैर्वणिते प्रस्थानत्रयेऽन्यतमं प्रस्थानं वर्तते स्मृतिप्रस्थानम्। तच्च स्मृतिप्रस्थानं भागवगीता वर्तते। अस्योपरि श्रीमद्भगवत्पादशङ्कराचार्याणां भाष्यं समस्तवेदान्तार्थावबोधकं राराजते दर्शनजगति। आनन्दगिर्याचार्यैस्तु ग्रन्थोऽयं त्रिषु काण्डेषु विभक्त:। तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति, मध्यमकाण्डं तत्पदार्थं विषयीकरोति, अन्तिमषट्कं तु पदार्थयोरैक्यं वाक्यार्थमधिकरोति। अस्मिन् पाठ्यक्रमे द्वयोः सत्रयोः विभज्य अयं ग्रन्थ: पाठयिष्यते, किञ्च उपनिषदां भाष्यग्रन्था: ब्रह्मसूत्रभाष्यञ्च विभज्य पाठ्यक्रमस्याङ्गत्वेन स्वीकृतं वर्तते। उपनिषत्सु विशेषत: छान्दोग्योपनिषद: षष्ठाध्याय: बृहदारण्यकोपनिषदस्तृतीयाध्यायश्च पाठ्यक्रमे विनियोजितौ। भाष्यग्रन्थेषु विद्यमाना: भगवत्पादश्रीमन्मुखाम्बुजनिर्गता: सूक्ती: समाश्रित्य तत्तदद्वैतदर्शनाचार्यैः यथासंस्कारं यथाश्रुतं च निजनिजव्युत्पत्त्यनुसारेण एतद्दर्शनीयतत्त्वबोधोपयोगितया कल्पितानां प्रक्रियाणां संग्रहात्मकः श्रीमदप्पयदीक्षितेन्द्रविरचितः शास्त्रसिद्धान्तलेशसंग्रहाख्यो ग्रन्थोऽपि यथायथं विभज्य पाठ्यक्रमस्यास्याङ्गत्वेन स्वीकृतः, यस्याध्ययनेन प्रायः समेषामपि अद्वैतदर्शनाचार्याणां मतं सुविदितं भवति । अतः परम् अद्वैतवेदान्तसिद्धान्ते द्वैतिभिः प्रदर्शितान् दोषाभासान् निराकर्तुं यतिश्रेष्ठैः आचार्यैः श्रीमधुसूदनसरस्वतीचरणैः विरचितः अद्वैतसिद्धिग्रन्थः प्रतिकर्मव्यवस्थापरिच्छेदान्त: पाठ्यक्रमेऽस्मिन् अङ्गीकृतः । ब्रह्मसूत्रशाङ्करभाष्यस्य सर्वतन्त्रस्वतन्त्र-श्रीवाचस्पतिमिश्रैर्विरचिता भामतीत्याख्या व्याख्या समन्वयाधिकरणान्ता विभज्य चरमसत्रद्वये पाठ्यग्रन्थत्वेन स्वीकृता ।
अयं च पाठ्यक्रमः सम्प्रदायानुसारम् अद्वैतवेदान्तमधिगन्तुकामान्,विशेषेण शोधादिकार्येष्वपि दत्तश्रद्धान् छात्रान् समुद्दिश्य भारतदेशे अन्यासु संस्थासु अद्वैतवेदान्तशास्त्रपाठ्यक्रमविषये आश्रितां पद्धतिं परिशील्य च विनिर्मितः । इत्थमेते ग्रन्थाः अत्र पाठ्यक्रमे विनियोजिताः । एतेषां ग्रन्थानां सम्यगध्ययनं छात्राणां नूनं विशिष्टां व्युत्पत्तिं सम्पादयिष्यति यया ते छात्राः अन्यान् ग्रन्थान् स्वयमध्येतुम् अध्यापयितुं च प्रभवेयुः ।
ततः छात्राणां संवहनगणकयन्त्रप्रयोगादिकौशलवर्धनाय अन्ये च विषयाः कल्पिताः ।
Ācārya Advaita Vedānta |
|||
Semester 1 |
Semester 2 |
||
Course Type |
Course Title |
Course Type |
Course Title |
Proficiency |
संस्कृतभाषा - १ (संस्कृतसम्भाषणम् /रघुवंशम् – द्वितीयः सर्गः) |
Proficiency |
संस्कृतभाषा - २ (चम्पूरामायणम् - बालकाण्डः) |
Proficiency |
Everyday English I /II |
Core |
English for the workplace |
Foundation |
व्याकरणप्रवेशः (सन्धिः, कारकम्, समासः, क्रियापरिचयः) |
Core |
तर्कसङ्ग्रहदीपिका |
Foundation |
Indic Knowledge Systems – 1 |
Foundation |
नव्यन्यायशास्त्रीयाः पारिभाषिकपदार्थाः |
Core |
तर्कसङ्ग्रहः |
Foundation |
Indian Knowledge Systems – 2 |
Self-immersion |
Yoga and Meditation |
Semester 3 |
Semester 4 |
||
Course Type |
Course Title |
Course Type |
Course Title |
Proficiency |
Computing Lab (1) |
Proficiency |
संस्कृतभाषा – ३ (वेणीसंहारम् – १, २, ३ / नाटकं छन्दश्च) |
Proficiency |
Computing for Business & Society |
Core |
वेदान्तपरिभाषा -२ (अर्थापत्तितः समाप्तिपर्यन्ता) |
Core |
न्यायसिद्धान्तमुक्तावली-1 (प्रत्यक्षखण्डान्तम्) |
Core |
मीमांसान्यायप्रकाश : - 2 (उत्तरभागः) |
Core |
वेदान्तपरिभाषा – 1 (आगमपरिच्छेदान्ता) |
Self Immersion |
Introduction to Seva |
Core |
मीमांसान्यायप्रकाश : -1 |
Core |
न्यायसिद्धान्तमुक्तावली -2 (अनुमानखण्डशब्दखण्डौ) |
Semester 5 |
Semester 6 |
||
Course Type |
Course Title |
Course Type |
Course Title |
Core |
गीताभाष्यम् – १ (प्रथमषट्कम्) |
Core |
सिद्धान्तलेशसङ्ग्रहः – 2 (द्वितीयपरिच्छेदः) |
Core |
सिद्धान्तलेशसङ्ग्रहः – 1 (प्रथमपरिच्छेदः) |
Core |
ऐतरेयोपनिषद् सभाष्या |
Core |
ईशकेनकठोपनिषद: सभाष्या: (केनोपनिषदि पदभाष्यमात्रम्) |
Core |
माण्डूक्योपनिषद् सगौडपादीयकारिका सभाष्या |
Core |
प्रश्नोपनिषद् मुण्डकोपनिषच्च सभाष्ये |
Proficiency |
Environmental Studies |
Core |
सांख्यकारिका (30 श्लोकाः) योगसूत्रञ्च (प्रथमपादद्वयम्) |
Core |
गीताभाष्यम् – 2 (द्वितीयतृतीयषट्के) |
Proficiency |
English writing Lab |
Semester 7 |
Semester 8 |
||
Course Type |
Course Title |
Course Type |
Course Title |
Core |
छान्दोग्योपनिषद: षष्ठाध्याय: सभाष्यः |
Core |
बृहदारण्यकोपनिषद् सभाष्या (तृतीयोऽध्यायः) |
Core |
तैत्तिरीयोपनिषत् सभाष्या |
Core |
ब्रह्मसूत्रभाष्यम् - 2 (द्वितीयाध्यायः) |
Core |
सिद्धान्तलेशसङ्ग्रहः – 3 (तृतीयपरिच्छेदः) |
Core |
अद्वैतसिद्धि: - 1 (सोपाधिकत्वान्तः भागः) |
Core |
ब्रह्मसूत्रभाष्यम् प्रथमाध्यायः) |
Core |
भामती -1 (जिज्ञासाधिकरणपर्यन्ता) |
Semester 9 |
Semester 10 |
||
Course Type |
Course Title |
Course Type |
Course Title |
Core |
अद्वैतसिद्धि: - 2 (आगमबाधोद्धारपर्यन्तो भागः) |
Core |
सिद्धान्तबिन्दुः/ खण्दनखण्डखाद्यम् |
Core |
ब्रह्मसूत्रभाष्यम् - 3 (तृतीयाध्यायः) |
Core |
अद्वैतसिद्धि: -लघुचन्द्रिका (प्रथममिथ्यात्वपर्यन्ता) |
Core |
ब्रह्मसूत्रभाष्यम् 4- (चतुर्थाध्यायः) |
Core |
सर्वदर्शनसङ्ग्रहः/ न्यायरक्षामणिः (चितो भागः) |
Core |
भामती -2 (समन्वयाधिकरणपर्यन्ता)/चित्सुखी चितो भागः |
Core |
प्रबन्धलेखनम् |
M.Sc. Applied Psychology Students Provide Free Career Counselling to Students of Class 12
View MoreA bite from Vidushi Manjusha Patil, Professor and Guru of Hindustani Music, CVV
View MoreCVV Student Arun Kumar Accepted in UN’s Prestigious Graduate Study Programme
View More