अद्य १७-१२-१९ दिनाङ्के NFSI अन्ताराष्ट्रीयसङ्गोष्ठ्याः द्वितीये दिने चतुर्थे शोधपत्रप्रस्तुतिसत्रे डा.तुलसीकुमारजोशीवर्यः आध्यक्ष्यं निरवहत् । तत्रादौ डा. बी. आर्. वलेपने-ज्ञानसेनवर्येण शोधपत्रं प्रस्तुतम् । प्रत्यक्षानुमानादिप्रमाणैः प्राप्तेन ज्ञानेन मनुष्याणां जीवनं सम्पन्नं भवति। शब्दप्रमाणस्य अनुमाने अन्तर्भावः भवेदिति महोदयस्य मतम् आसीत्। बौद्धदर्शने अनुमानप्रमाणं प्राधान्येन स्वीक्रियते साङ्ख्यानामपेक्षया इत्यपि तेन अभिप्रेतम् ।
द्वितीयां प्रस्तुतिं डा. बी. आर्. शान्ताकुमारीवर्या ‘Conclusions of Science – The Hypothesis of Advaita’ इति शीर्षकोपेतेन शोधपत्रेण कृतवती। सर्पस्य अभावादपि दृश्यते रज्ज्वां सर्पः इयमस्ति अपूर्णता। इतः एव दार्शनिकविचारः प्रवर्तते। सम्यग्विवेकः अस्ति सम्यग्वैराग्यस्य जनकः अस्ति इत्यादयो विषयाः पत्रेsस्मिन् प्रतिपादिताः ।
तृतीयं पत्रं श्रीमता आनन्दविश्वनाथवर्येण प्रस्तुतम् ।
महोदयेन बौद्धदर्शनस्य त्रिपिटकाधारेण अद्यतने जीवने प्रासङ्गिकता वर्णिता।
अध्यक्षभाषणेन कार्यक्रमोsयं परिसमाप्तः ।
The fourth Technical Session on Day 2 of the conference was split into two parallel tracks, with three paper presentations on the theme ‘Consciousness and Well-being’. The session was chaired by Dr. Tulasi Kumar Joshi, Assistant Professor, Chinmaya Vishwavidyapeeth’s School of Vedic Knowledge Systems.
The first paper of this session was titled ‘A Comparative Analysis of Epistemology in Sankhya and Buddhist Philosophy’. It was presented by Mr. Walapane Gnanasena. It attempted to compare and contrast three distinct levels of knowledge as per both the Sankhya and Buddhist philosophies.
In the second paper titled ‘Conclusions of Science – The Hypothesis of Advaita’, Dr. B. R. Shantha Kumari presented a brief account of concepts such as Yoga, mode of pursuit of atma vidya as per Indian tradition, the nature of self-realisation and the difference between paroksha gnana and aparoksha gnana.
In the third paper of the session, Mr. Anantha Vishwanathan explained lucidly the characteristic features of mindfulness, as described in the Pali Tripitaka of Buddhist philosophy and also as per the Smruti Prasthana.