Events Enquire Now

Toll Free: 1800-270-4888

Events

Sanskrit Talent Search

Event Date : May 30, 2021 - May 30, 2021

संस्कृत-प्रतिभा-परीक्षा

संस्कृतभाषा भारतीयज्ञानपरम्पराणाम् प्रमुखः आकरः इति सर्वे जानन्ति एव । विविधैः गुणैः सुसम्पन्नायां हि अस्यां भाषायां काव्य-नाटक-दर्शनेतिहास-वैद्यक-विज्ञानादिविषयेषु वाङ्मयानि विरचितानि विरच्यमानानि च सन्ति । नैकानि वर्षसहस्राणि उपासिताऽपि एषा अद्यापि विविधैः विद्वद्भिः विद्यार्थिभिः च निरन्तरं समुपसेव्यमाना विराजते । अद्यापि भूतले सहस्रशः छात्राः विद्यालयेषु विश्वविद्यालयेषु च एतां भाषां पठन्ति । 

संस्कृतभाषायाम् आसक्तानाम्, अग्रे च अध्ययनस्य अनुवर्तने समुत्सुकानां छात्राणां प्रोत्साहनाय चिन्मयविश्वविद्यापीठेन अन्तर्जालीया परीक्षा आयोजिता अस्ति । विद्यालयेषु १०, ११, १२ काक्ष्यासु अध्ययनं कुर्वन्तः छात्राः अत्र भागं ग्रहीतुं शक्नुवन्ति । अस्य वर्षस्य मै-मासस्य ३० (30th May 2021) दिनाङ्काद् आरभ्य प्रवर्तिष्यमाणायाम् अस्यां परीक्षायां विजेतारः १० छात्राः -

  • चिन्मय-बाल-संस्कृत-प्रतिभा इति बिरुदं प्राप्स्यन्ति
  • ₹ १०००० धनराशिं बहुमानरूपेण प्राप्स्यन्ति
  • १२ कक्ष्यायाम् अधीयानाः छात्राः अस्माकं विश्वविद्यालस्य संयुताचार्यः (Integrated Masters), बि ए संस्कृतम् इति पदव्योः संपूर्णछात्रवृत्तिसहितं प्रवेशं प्राप्तुम् अर्हाः भविष्यन्ति*

अर्हाः भागग्राहिणः - 

१०, ११, १२ कक्ष्यासु / तत्समानासु प्राक्-शास्त्री/प्राक्-शिरोमणिः/उत्तरमध्यमा/साहित्यम् इत्यादिषु च पठन्तः छात्राः परीक्षायां भागं ग्रहीतुम् अर्हन्ति ।

परीक्षा त्रिषु स्तरेषु भविष्यति -

  • ‘कोरोना-विषमे काले मम अध्ययनानुभवः’ इति विषयम् अधिकृत्य संस्कृतभाषायां ५०० पदात्मकः प्रबन्धः लेखनीयः ।
  • मै-मासस्य ३० दिनाङ्के अन्तर्जालपरीक्षा भविष्यति । अन्तर्जालीयपरीक्षां समाप्य लिखितः प्रबन्धः तस्मिन् एव दिने समर्पणीयः । 
  • प्रबन्धं परीक्षां च आधारीकृत्य चितानां उत्तमानां २० छात्राणां वाक्परीक्षा भविष्यति, ततः १० छात्राणां चयनं भविष्यति ।

अवधेयाः अंशाः -

  • परीक्षायां भागं ग्रहीतुम् अधोदत्तं संकेतम् उपयुज्य नामाङ्कनम् अवश्यं कर्तव्यम् 
  • परीक्षायाः, प्रबन्धसमर्पणस्य, वाक्परीक्षायाः च कृते आवश्यकाः संकेताः (online links) आवेदयितृभ्यः वैद्युतपत्रद्वारा (email) प्रेषयिष्यन्ते । 
  • अत्युत्तमानां प्रतिभागिनां चयने परीक्षकाणां निर्णयः अन्तिमः 

*पदव्यां प्रवेशप्रदाने यु जि सि इत्यायोगेन चिन्मयविश्वविद्यापीठेन च निर्धारितानां सर्वेषां नियमानाम् अनुसरणं क्रियते ।

Sanskrit Talent Search

That Sanskrit is the most important repository of Indian Knowledge Systems is a well known fact today. It is a rich language which has literature in every discipline such as poetry, drama, epic, philosophy, science and many more. With a history spanning several millennia, it continues to draw the attention of specialists and non-specialists even today. There are thousands of students pursuing Sanskrit in their schools, colleges and universities all over the globe. Chinmaya Vishwavidyapeeth is conducting an Online Sanskrit Test to reach out to such students and encourage them to pursue their Sanskrit studies further. 

Are you one such passionate student of Sanskrit? Then give this test a shot.

The online test will be conducted on the 30th May 2021 followed by an oral test. Top ten winners will - 

  • The title Cinmaya bāla saṃskṛta pratibhā 
  • A cash prize of ₹ 10000
  • Direct admission to the Sanskrit-related programmes of the university with full scholarship*

Date of the test: 30 May 2021 

(followed by an oral test at a later date)

Eligibility*:

Students studying in classes 10, 11 and 12 / Sanskrit PU programmes such as Prāk-śāstrī/Prāk-śiromaṇiḥ/Sāhityam/Uttaramadhyamā etc.

Steps to be followed:

  • Write an essay on the topic ‘कोरोना-विषमे काले मम अध्ययनानुभवः’ in Sanskrit in around 500 words.
  • Answer the online test on 30 May 2021 and upload the essay. 
  • The top twenty students will have an oral examination out of which ten will be chosen for the prize. 

Syllabus:

Please Note:

  • Register for the examination using the following link.
  • The online links required for the online examination, uploading essays and oral examination will be shared through email. 
  • The decision of the examiners shall be final. 

*The eligibility criteria for admission to UG programmes set by the UGC and CVV need to be fulfilled.

Queries: +91 99166 55307 | pariksha@cvv.ac.in

Last date to register: 29 May 2021

Register here.

 

Latest News